Tuesday, April 14, 2026

प्रश्नोत्तररत्नमालिका [praśnottararatnamālikā ]

पदच्छेद and अन्वय based on the classes by our श्रीपूज्यस्वामिजी found in Talks & Essays Vol. 3

Will be updated weekly as I proceed in my classes.

 

प्रश्नोत्तररत्नमालिका

 

कः खलु नालङ्क्रियते दृष्टादृष्टार्थसाधनपटीयान् ।

अमुया कण्ठस्थितया प्रश्नोत्तररत्नमालिकया ॥ १॥

 

कः 1/1 खलु 0 0 लङ्क्रियते III/1 दृष्टादृष्ट-र्थ-साधन-पटीयान् 1/1

अमुया 3/1 कण्ठस्थितया 3/1 प्रश्नोत्तर-रत्न-मालिकया 3/1 ॥ १॥

 

कः 1/1 दृष्टादृष्ट-र्थ-साधन-पटीयान् 1/1 खलु 0 अमुया 3/1 कण्ठस्थितया 3/1 प्रश्नोत्तर-रत्न-मालिकया 3/1 0 लङ्क्रियते III/1 ॥ १॥

 

 

भगवन् किमुपादेयं गुरुवचनं हेयमपि किमकार्यम् ।

को गुरुः अधिगततत्त्वः शिष्यहितायोद्यतः सततम् ॥ २॥

 

भगवन् S/1 किम् 1/1पादेयम् 1/1 गुरुवचनम् 1/1 हेयम् 1/1 अपि 0 किम् 1/1कार्यम् 1/1

1/1 गुरुः 1/1 अधिगततत्त्वः 1/1 शिष्यहिताय 4/1द्यतः 1/1 सततम् 0 ॥ २॥

 

भगवन् S/1 किम् 1/1पादेयम् 1/1 गुरुवचनम् 1/1

हेयम् 1/1 अपि 0 किम् 1/1 कार्यम् 1/1

1/1 गुरुः 1/1 । अधिगततत्त्वः 1/1 शिष्यहिताय 4/1 सततम् 0 द्यतः 1/1 ॥ २॥

उद्यतः = उद् + यत (यम् + क्त) + 1/1

 

 

त्वरितं किं कर्तव्यं विदुषां संसारसन्ततिच्छेदः ।

किं मोक्षतरोर्बीजं सम्यग्ज्ञानं क्रियासिद्धम् ॥ ३॥

 

त्वरितम् 1/1 किम् 1/1 कर्तव्यम् 1/1 विदुषाम् 6/3 संसार-सन्तति-च्छेदः 1/1

किम् 1/1 मोक्ष-तरो 6/1 बीम् 1/1 सम्यग्-ज्ञानम् 1/1 क्रियासिद्धम् 1/1 ॥ ३॥

 

किम् 1/1 विदुषाम् 6/3 त्वरितम् 1/1 कर्तव्यम् 1/1 । संसार-सन्तति-च्छेदः 1/1

किम् 1/1 मोक्ष-तरो 6/1 बीम् 1/1 । सम्यग्-ज्ञानम् 1/1 क्रियासिद्धम् 1/1 ॥ ३॥

 

 

कः पथ्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धम् ।

कः पण्डितो विवेकी किं विषमवधीरणा गुरुषु ॥ ४॥

 

कः 1/1 पथ्यतर 1/1 धर्मः 1/1 कः 1/1 शुचि 1/1 0 यस्य 6/1 मानसम् 1/1 शुद्धम् 1/1

कः 1/1 पण्डि 1/1 विवेकी 1/1 किम् 1/1 विषम् 1/1वधीरणा 1/1 गुरुषु 7/3॥ ४॥

 

कः 1/1 पथ्यतर 1/1 धर्मः 1/1

कः 1/1 0 शुचि 1/1यस्य 6/1 मानसम् 1/1 शुद्धम् 1/1

कः 1/1 पण्डि 1/1 विवेकी 1/1

किम् 1/1 विषम् 1/1 गुरुषु 7/3वधीरणा 1/1॥ ४॥

 

 

किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव ।

किं मनुजेष्विष्टतमं स्वपरहितायोद्यतं जन्म ॥ ५॥

 

किम् 1/1 संसारे 7/1 सारम् 1/1 बहुश 0पि 0 विचिन्त्यमानम् 1/1 इदम् 1/1 0

किम् 1/1 मनुजेषु 7/3ष्टतमम् 1/1 स्व-पर-हिताय 4/1द्यतम् 1/1 जन्म 1/1॥ ५॥

 

किम् 1/1 संसारे 7/1 सारम् 1/1 इदम् 1/1 0 बहुश 0पि 0 विचिन्त्यमानम् 1/1

किम् 1/1 मनुजेषु 7/3ष्टतमम् 1/1 स्व-पर-हिताय 4/1द्यतम् 1/1 जन्म 1/1॥ ५॥

 

 

मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः ।

का भववल्ली तृष्णा को वैरी यस्त्वनुद्योगः ॥ ६॥

 

मदिरा 1/1 0 मोह-जनकः 1/1 कः 1/1 स्नेहः 1/1 के 1/3 0 दस्यव 1/3 विषयाः 1/3

का 1/1 भव-ल्ली 1/1 तृष्णा 1/1 1/1 वैरी 1/1 1/1 तु 0नुद्योगः 1/1 ॥ ६॥

 

कः 1/1 मदिरा 1/1 0 मोह-जनकः 1/1 स्नेहः 1/1

के 1/3 0 दस्यव 1/3 विषयाः 1/3

का 1/1 भव-ल्ली 1/1 तृष्णा 1/1

1/1 वैरी 1/1 1/1 तु 0नुद्योगः 1/1 ॥ ६॥

 

 

कस्माद्भयमिह मरणादन्धादिह को विशिष्यते रागी ।

कः शूरो यो ललनालोचनबाणैर्न च व्यधितः ॥ ७॥

 

कस्मात् 5/1 भयम् 1/1 इह 0 मरणात् 5/1न्धात् 5/1 इह 0 1/1 विशिष्यते III/1 रागी 1/1

कः 1/1 शूर 1/1 1/1 ललना-आलोचन-बाणै 3/3 0 0 व्यधितः 1/1 ॥ ७॥

 

कस्मात् 5/1 इह 0 भयम् 1/1मरणात् 5/1

1/1 इह 0न्धात् 5/1 विशिष्यते III/1 रागी 1/1

कः 1/1 शूर 1/1 1/1 0 ललना-आलोचन-बाणै 3/3 0 व्यधितः 1/1 ॥ ७॥

 

 

पान्तुं कर्णाञ्जलिभिः किममृतमिह युज्यते सदुपदेशः ।

किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ८॥

 

पान्तुम् 0 कर्णाञ्जलिभिः 3/3 किम् 1/1मृतम् 1/1 0 युज्यते III/1 सदुपदेशः 1/1

किम् 1/1 गुरुताया 6/1 मूलम् 1/1 त् 1/1 एतत् 1/1प्रार्थनम् 1/1 नाम 1/1 ॥ ८॥

 

किम् 1/1मृतम् 1/1 0 कर्णाञ्जलिभिः 3/3 पान्तुम् 0 युज्यते III/1 सदुपदेशः 1/1

किम् 1/1 गुरुताया 6/1 मूलम् 1/1 त् 1/1 एतत् 1/1प्रार्थनम् 1/1 नाम 1/1॥ ८॥

 

 

किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन ।

किं दुःखं असन्तोषः किं लाघवमधमतो याच्ञा ॥ ९॥

 

किम् 1/1 गहनम् 1/1 स्त्रीचरिम् 1/1 1/1तुर 1/1 1/1 न खण्डित 1/1 ते 3/1

किम् 1/1 दुःखम् 1/1 असन्तोषः 1/1 किम् 1/1 लाघवम् 1/1धमत 0 याच्ञा 1/1॥ ९॥

 

किम् 1/1 गहनम् 1/1 स्त्रीचरिम् 1/1 1/1तुर 1/1 1/1 ते 3/1 0 खण्डित 1/1

किम् 1/1 दुःखम् 1/1 असन्तोषः 1/1 किम् 1/1 लाघवम् 1/1 । अधमत 0 याच्ञा 1/1॥ ९॥

 

 

किं जीवितमनवद्यं किं जाड्यं पाठतोऽप्यनभ्यासः ।

को जागर्ति विवेकी का निद्रा मूढता जन्तोः ॥ १०॥

 

किम् 1/1 जीवितम् 1/1नवद्यम् 1/1 किम् 1/1 जाड्यम् 1/1 पाठत 0 अपि 0नभ्यासः 1/1

1/1 जागर्ति III/1 विवेकी 1/1 का 1/1 निद्रा 1/1 मूढता 1/1 जन्तोः 6/1॥ १०॥

 

किम् 1/1 जीवितम् 1/1 । अनवद्यम् 1/1 किम् 1/1 जाड्यम् 1/1 पाठत 0 अपि 0नभ्यासः 1/1

1/1 जागर्ति III/1 विवेकी 1/1 । का 1/1 निद्रा 1/1 जन्तोः 6/1 मूढता 1/1 ॥ १०॥

 

 

नलिनीदलगतजलवत्तरलं किं यौवनं धनं चायुः ।

कथय पुनः के शशिनः किरणसमाः सज्जना एव ॥ ११॥

 

नलिनी-दल-गत-जलवत् 0रलम् 1/1 किम् 1/1 यौवनम् 1/1 धनम् 1/1 0 आयुः 1/1

कथय II/1 पुनः 0 के 1/3 शशिनः 6/1 किरण-समाः 1/3 सज्जनाः 1/3 एव 0 ॥ ११॥

 

किम् 1/1 नलिनी-दल-गत-जलवत् 0रलम् 1/1 । यौवनम् 1/1 धनम् 1/1 आयुः 1/1 0

पुनः 0 कथय II/1 के 1/3 शशिनः 6/1 किरण-समाः 1/3 । सज्जनाः 1/3 एव 0 ॥ ११॥

 

 

को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या ।

किं सत्यं भूतहितं प्रियं च किं प्राणिनामसवः ॥ १२॥

 

1/1 नरकः 1/1 परवशता 1/1 किम् 1/1 सौक्यम् 1/1 सर्वसङ्ग-विरतिः 1/1 या 1/1

किम् 1/1 साध्यम् 1/1 भूतहितम् 1/1 प्रियम् 1/1 0 किम् 1/1 प्राणिनाम् 6/3 असवः 1/3 ॥ १२॥

 

1/1 नरकः 1/1 । परवशता 1/1 । किम् 1/1 सौक्यम् 1/1 । या 1/1 सर्वसङ्ग-विरतिः 1/1

किम् 1/1 साध्यम् 1/1 । भूतहितम् 1/1 । किम् 1/1 0 प्राणिनाम् 6/3 प्रियम् 1/1 । असवः 1/3 ॥ १२॥

 

 

कोऽनर्थफलो मानः का सुखदा साधुजनमैत्री ।

सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागी ॥ १३॥

 

1/1नर्थफलः 1/1 मानः 1/1 का 1/1 सुखदा 1/1 साधुजन-मैत्री 1/1

सर्व-व्यसन-विनाशे 7/1 कः 1/1 दक्षः 1/1 सर्वथा 0 त्यागी 1/1 ॥ १३॥

 

1/1नर्थफलः 1/1 । मानः 1/1 । का 1/1 सुखदा 1/1 । साधुजन-मैत्री 1/1

सर्व-व्यसन-विनाशे 7/1 कः 1/1 दक्षः 1/1 । सर्वथा 0 त्यागी 1/1 ॥ १३॥

 

 

किं मरणं मूर्खत्वं किं चानर्घं यदवसरे दत्तम् ।

आमरणात् किं शल्यं प्रच्छन्नं यत्कृतं पापम् ॥ १४॥

 

किम् 1/1 मरणम् 1/1 मूर्खत्वम् 1/1 किम् 1/1 0 अनर्घम् 1/1 यत् 1/1 अवसरे 7/1 दत्तम् 1/1

0 मरणात् 5/1 किम् 1/1 शल्यम् 1/1 प्रच्छन्नम् 1/1 यत् 1/1 कृतम् 1/1 पापम् 1/1 ॥ १४॥

 

किम् 1/1 मरणम् 1/1। मूर्खत्वम् 1/1

किम् 1/1 0 अनर्घम् 1/1 । यत् 1/1 अवसरे 7/1 दत्तम् 1/1

0 मरणात् 5/1 किम् 1/1 शल्यम् 1/1 । प्रच्छन्नम् 1/1 यत् 1/1 कृतम् 1/1 पापम् 1/1 ॥ १४॥

 

 

कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने ।

अवधीरणा क्व कार्या खलपरयोषित्परधनेषु ॥ १५॥

 

कुत्र 0 विधेयः 1/1 यत्नः 1/1 विद्याभ्यासे 7/1 सदौषधे 7/1 दाने 7/1

अवधीरणा 1/1 क्व 0 कार्या 1/1 खल-परयोषित्-परधनेषु 7/3 ॥ १५॥

 

कुत्र 0 यत्नः 1/1 विधेयः 1/1। विद्याभ्यासे 7/1 सदौषधे 7/1 दाने 7/1

क्व 0 अवधीरणा 1/1 कार्या 1/1 । खल-परयोषित्-परधनेषु 7/3 ॥ १५॥

 

 

काहर्निशमनुचिन्त्या संसारासारता न तु प्रमदा ।

का प्रेयसी विधेया करुणा दीनेषु सज्जने मैत्री ॥ १६॥

 

का 1/1 अहर्निशम् 0 अनुचिन्त्या 1/1 संसार-असारता 1/1 0 तु 0 प्रमदा 1/1

का 1/1 प्रेयसी 1/1 विधेया 1/1 करुणा 1/1 दीनेषु 7/3 सज्जने 7/1 मैत्री 1/1 ॥ १६॥

 

का 1/1 अहर्निशम् 0 अनुचिन्त्या 1/1 । संसार-असारता 1/1 0 तु 0 प्रमदा 1/1

का 1/1 प्रेयसी 1/1 विधेया 1/1 । दीनेषु 7/3 करुणा 1/1, सज्जने 7/1 मैत्री 1/1 ॥ १६॥

 

 

कण्ठगतैरप्यसुभिः कस्य ह्यात्मा न शक्यते जेतुम् ।

मूर्खस्य शङ्कितस्य च विषादिनो वा कृतघ्नस्य ॥ १७॥

 

कण्ठगतै 3/3 अपि 0 असुभिः 3/3 कस्य 6/1 हि 0 आत्मा 1/1 0 शक्यते III/1 जेतुम् 0

मूर्खस्य 6/1 शङ्कितस्य 6/1 0 विषादिनः 6/1 वा 0 कृतघ्नस्य 6/1 ॥ १७॥

 

कस्य 6/1 हि 0 आत्मा 1/1 कण्ठगतै 3/3 अपि 0 असुभिः 3/3 जेतुम् 0 0 शक्यते III/1 मूर्खस्य 6/1 शङ्कितस्य 6/1 विषादिनः 6/1 0 कृतघ्नस्य 6/1 वा 0 ॥ १७॥

 

 

कः साधुः सद्‍वृत्तः कमधममाचक्षते त्वसद्वृत्तम् ।

केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ॥ १८॥

 

कः 1/1 साधुः 1/1 सद्‍वृत्तः 1/1 कम् 2/1 अधमम् 2/1 आचक्षते III/3 तु 0 असद्वृत्तम् 1/1

केन 3/1 जितम् 1/1 जगत् 1/1 एतत् 1/1 सत्य-तितिक्षावता 3/1 पुंसा 3/1 ॥ १८॥

 

कः 1/1 साधुः 1/1 । सद्‍वृत्तः 1/1

कम् 2/1 अधमम् 2/1 आचक्षते III/3 । तु 0 असद्वृत्तम् 1/1

केन 3/1 एतत् 1/1 जगत् 1/1 जितम् 1/1 । सत्य-तितिक्षावता 3/1 पुंसा 3/1॥ १८॥

 

 

कस्मै नमांसि देवाः कुर्वन्ति दयाप्रधानाय ।

कस्मादुद्वेगः स्यात्संसारारण्यतः सुधियः ॥ १९॥

 

कस्मै 4/1 नमांसि 2/3 देवाः 1/3 कुर्वन्ति III/3 दयाप्रधानाय 4/1

कस्मात् 5/1 उद्वेगः 1/1 स्यात् III/1 संसार-अरण्यतः 0 सुधियः 6/1 ॥ १९॥

 

देवाः 1/3 कस्मै 4/1 नमांसि 2/3 कुर्वन्ति III/3 दयाप्रधानाय 4/1

कस्मात् 5/1 उद्वेगः 1/1 स्यात् III/1 । सुधियः 6/1 संसार-अरण्यतः 0 ॥ १९॥

 

 

कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य ।

क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाढ्ये ॥ २०॥

 

कस्य 6/1 वशे 7/1 प्राणिगणः 1/1 सत्य-प्रिय-भाषिणः 6/1 विनीतस्य 6/1

क्व 0 स्थातव्यम् 1/1 न्याय्ये 7/1 पथि 7/1 दृष्ट-दृष्ट-लाभ-आढ्ये 7/1 ॥ २०॥

 

कस्य 6/1 वशे 7/1 प्राणिगणः 1/1 । सत्य-प्रिय-भाषिणः 6/1 विनीतस्य 6/1

क्व 0 स्थातव्यम् 1/1 । न्याय्ये 7/1 दृष्ट-दृष्ट-लाभ-आढ्ये 7/1 पथि 7/1 ॥ २०॥

 

 

कोऽन्धो योऽकार्यरतः को बधिरो यो हितानि न शृणोति ।

को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ २१॥

 

1/1न्ध 1/1 1/1 अकार्यरतः 1/1 1/1 बधिर 1/1 1/1 हितानि 2/3 0 शृणोति III/1

1/1 मूक 1/1 यः 1/1 काले 7/1 प्रियाणि 2/3 वक्तुम् 0 0 जानाति III/1 ॥ २१॥

 

1/1न्ध 1/1 1/1 अकार्यरतः 1/1

1/1 बधिर 1/1 1/1 हितानि 2/3 0 शृणोति III/1

1/1 मूक 1/1 यः 1/1 काले 7/1 प्रियाणि 2/3 वक्तुम् 0 0 जानाति III/1 ॥ २१॥

 

 

किं दानमनाकाङ्क्षं किं मित्रं यो निवारयति पापात् ।

कोऽलङ्कारः शीलं किं वाचां मण्डनं सत्यम् ॥ २२॥

 

किम् 1/1 दानम् 1/1नाकाङ्क्षम् 1/1 किम् 1/1 मित्रम् 1/1 1/1 निवारयति III/1 पापात् 5/1

1/1लङ्कारः 1/1 शीलम् 1/1 किम् 1/1 वाचाम् 6/3 मण्डनम् 1/1 सत्यम् 1/1 ॥ २२॥

 

किम् 1/1 दानम् 1/1 । अनाकाङ्क्षम् 1/1 । (अविद्यमाना आकाङ्क्षा यस्मिन् तत् अनाकाङ्क्षं दानम्।)

किम् 1/1 मित्रम् 1/1 1/1 पापात् 5/1 निवारयति III/1

1/1लङ्कारः 1/1 शीलम् 1/1

किम् 1/1 वाचाम् 6/3 मण्डनम् 1/1 सत्यम् 1/1 ॥ २२॥

 

 

विद्युद्विलसितचपलं किं दुर्जनसङ्गतिर्युवतयश्च ।

कुलशीलनिष्प्रकम्पाः के कलिकालेऽपि सज्जना एव ॥ २३॥

 

विद्युद्-विलसित-चपलम् 1/1 किम् 1/1 दुर्जनसङ्गति 1/1 युवतय 1/3 0

कुलशीलनिष्प्रकम्पाः 1/3 के 1/3 कलिकाले 7/1पि 0 सज्जना 1/3 एव 0 ॥ २३॥

 

किम् 1/1 विद्युद्-विलसित-चपलम् 1/1 दुर्जनसङ्गति 1/1 युवतय 1/3 0

कलिकाले 7/1पि 0 के 1/3 कुलशीलनिष्प्रकम्पाः 1/3 सज्जना 1/3 एव 0 ॥ २३॥

 

 

चिन्तामणिरिव दुर्लभमिह किं कथयामि तच्चतुर्भद्रम् ।

किं तद्वदन्ति भूयो विधुततमस विशेषेण ॥ २४॥

 

चिन्तामणि 1/1 0 दुर्लभम् 1/1 इह 0 किम् 1/1 कथयामि I/1 त् 2/1तुर्भद्रम् 2/1

किम् 1/1 त् 1/1दन्ति III/3 भूय 0 विधुततमस 1/3 विशेषेण 0 ॥ २४॥

 

किम् 1/1 इह 0 चिन्तामणि 1/1 0 दुर्लभम् 1/1 त् 2/1तुर्भद्रम् 2/1 कथयामि I/1

किम् 2/1 त् 2/1 भूय 0 विधुततमस 1/3 विशेषेण 0 दन्ति III/3 ॥ २४॥

 

 

दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् ।

वित्तं त्यागसमेतं दुर्लभमेतच्चतुर्भद्रम् ॥ २५॥

 

दानम् 1/1 प्रियवाक्-सहितम् 1/1 ज्ञानम् 1/1गर्वम् 1/1 क्षमा-अन्वितम् 1/1 शौर्यम् 1/1

वित्तम् 1/1 त्याग-समेतम् 1/1 दुर्लभम् 1/1 एतत् 1/1तुर्भद्रम् 1/1॥ २५॥

 

प्रियवाक्-सहितम् 1/1 दानम् 1/1

गर्वम् 1/1 ज्ञानम् 1/1

शौर्यम् 1/1 क्षमा-अन्वितम् 1/1

त्याग-समेतम् 1/1 वित्तम् 1/1

एतत् 1/1 दुर्लभम् 1/1तुर्भद्रम् 1/1॥ २५॥

 

 

किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्तमौदार्यम् ।

कः पूज्यो विद्वद्भिः स्वभावतः सर्वदा विनीतो यः ॥ २६॥

 

किम् 1/1 शोच्यम् 1/1 कार्पण्यम् 1/1 सति 7/1 विभवे 7/1 किम् 1/1 प्रशस्तम् 1/1दार्यम् 1/1

कः 1/1 पूज्य 1/1 विद्वद्भिः 3/3 स्वभावतः 1/1 सर्वदा 0 विनीत 1/1 यः 1/1 ॥ २६॥

 

किम् 1/1 शोच्यम् 1/1 कार्पण्यम् 1/1

विभवे 7/1 सति 7/1 किम् 1/1 प्रशस्तम् 1/1 । औदार्यम् 1/1

कः 1/1 विद्वद्भिः 3/3 पूज्य 1/1 यः 1/1 स्वभावतः 1/1 सर्वदा 0 विनीत 1/1 ॥ २६॥

 

 

कः कुलकमलदिनेशः सति गुणाविभवेऽपि यो नम्रः ।

कस्य वशे जगदेतत्प्रियहितवचनस्य धर्मनिरतस्य ॥ २७॥

 

कः 1/1 कुलकमलदिनेशः 1/1 सति 7/1 गुणाविभवे 7/1पि 0 1/1 नम्रः 1/1

कस्य 6/1 वशे 7/1 जगत् 1/1 एतत् 1/1 प्रियहितवचनस्य 6/1 धर्मनिरतस्य 6/1 ॥ २७॥

 

कः 1/1 कुलकमलदिनेशः 1/1 1/1 गुणाविभवे 7/1 सति 7/1 पि 0 नम्रः 1/1

कस्य 6/1 वशे 7/1 एतत् 1/1 जगत् 1/1 । प्रियहितवचनस्य 6/1 धर्मनिरतस्य 6/1 ॥ २७॥

 

 

विद्वन्मनोहरा का सत्कविता बोधवनिता च ।

कं न स्पृशति विपत्तिः प्रवृद्धवचनानुवर्तिनं दान्तम् ॥ २८॥

 

विद्वन्मनोहरा 1/1 का 1/1 सत्कविता 1/1 बोधवनिता 1/1 0

म् 2/1 0 स्पृशति III/1 विपत्तिः 1/1 प्रवृद्ध-वचनानुवर्तिनम् 2/1 दान्तम् 2/1 ॥ २८॥

 

का 1/1 विद्वन्मनोहरा 1/1 सत्कविता 1/1 बोधवनिता 1/1 0

विपत्तिः 1/1 म् 2/1 0 स्पृशति III/1 प्रवृद्ध-वचनानुवर्तिनम् 2/1 दान्तम् 2/1 ॥ २८॥

 

 

कस्मै स्पृहयति कमला त्वनलसचित्ताय नीतिवृत्ताय ।

त्यजति च कं सहसा द्विजगुरुसुरनिन्दाकरं च सालस्यम् ॥ २९॥

 

कस्मै 4/1 स्पृहयति III/1 कमला 1/1 तु 0नलस-चित्ताय 4/1 नीति-वृत्ताय 4/1

त्यजति III/1 0 म् 2/1 सहसा 0 द्विज-गुरु-सुर-निन्दा-करम् 2/1 0 सालस्यम् 2/1 ॥ २९॥

 

कमला 1/1 तु 0 कस्मै 4/1 स्पृहयति III/1 । अनलस-चित्ताय 4/1 नीति-वृत्ताय 4/1

म् 2/1 0 सहसा 0 त्यजति III/1 द्विज-गुरु-सुर-निन्दा-करम् 2/1 सालस्यम् 2/1 0 ॥ २९॥

 

 

कुत्र विधेयो वासः सज्जननिकटेऽथवा काश्याम् ।

कः परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च ॥ ३०॥

 

कुत्र 0 विधेय 1/1 वासः 1/1 सज्जन-निकटे 7/1थवा 0 काश्याम् 7/1

कः 1/1 परिहार्य 1/1 देशः 1/1 पिशुन-युत 1/1 लुब्धभूप 1/1 0॥ ३०॥

 

कुत्र 0 विधेय 1/1 वासः 1/1 सज्जन-निकटे 7/1थवा 0 काश्याम् 7/1

कः 1/1 परिहार्य 1/1 देशः 1/1 पिशुन-युत 1/1 लुब्धभूप 1/1 0॥ ३०॥

 

 

केनाशोच्यः पुरुषः प्रणतकलत्रेण धीरविभवेन ।

इह भुवने कः शोच्यः सत्यपि विभवे न यो दाता ॥ ३१॥

 

केन 3/1 शोच्यः 1/1 पुरुषः 1/1 प्रणत-कलत्रेण 3/1 धीर-विभवेन 3/1

इह 0 भुवने 7/1 कः 1/1 शोच्यः 1/1 ति 7/1पि 0 विभवे 7/1 0 1/1 दाता 1/1 ॥ ३१॥

 

केन 3/1 शोच्यः 1/1 पुरुषः 1/1 प्रणत-कलत्रेण 3/1 धीर-विभवेन 3/1

इह 0 भुवने 7/1 कः 1/1 शोच्यः 1/1 विभवे 7/1 ति 7/1पि 0 1/1 0 दाता 1/1 ॥ ३१॥

 

 

किं लघुताया मूलं प्राकृतपुरुषेषु या याच्ञा ।

रामादपि कः शूरः स्मरशरनिहतो न यश्चलति ॥ ३२॥

 

किम् 1/1 लघुताया 6/1 मूलम् 1/1 प्राकृत-पुरुषेषु 7/3 या 1/1 याच्ञा 1/1

रामात् 5/1पि 0 कः 1/1 शूरः 1/1 स्मर-शर-निहत 1/1 0 1/1लति III/1 ॥ ३२॥

 

किम् 1/1 लघुताया 6/1 मूलम् 1/1 । या 1/1 प्राकृत-पुरुषेषु 7/3 याच्ञा 1/1

रामात् 5/1पि 0 कः 1/1 शूरः 1/1 । य 1/1 स्मर-शर-निहत 1/1 0 लति III/1 ॥ ३२॥

 

 

किमहर्निशमनुचिन्त्यं भगवच्चरणं न संसारः ।

चक्षुष्मन्तोऽप्यन्धाः के स्युः ये नास्तिका मनुजाः ॥ ३३॥

 

किम् 1/1हर्निशम् 0नुचिन्त्यम् 1/1 भगवत्-चरणम् 1/1 0 संसारः 1/1

चक्षुष्मन्त 1/3 अपि 0न्धाः 1/3 के 1/3 स्युः III/3 ये 1/3 नास्तिका 1/3 मनुजाः 1/3 ॥ ३३॥

 

किम् 1/1हर्निशम् 0नुचिन्त्यम् 1/1 । भगवत्-चरणम् 1/1, 0 संसारः 1/1

चक्षुष्मन्त 1/3 अपि 0 के 1/3 न्धाः 1/3 स्युः III/3 । ये 1/3 नास्तिका 1/3 मनुजाः 1/3 ॥ ३३॥

 

 

कः पङ्गुरिह प्रथितो व्रजति च यो वार्द्धके तीर्थम् ।

किं तीर्थमपि च मुख्यं चित्तमलं यन्निवर्तयति ॥ ३४॥

 

कः 1/1 पङ्गु 1/1 0 प्रथित 1/1 व्रजति III/1 0 1/1 वार्द्धके 7/1 तीर्थम् 2/1

किम् 1/1 तीर्थम् 1/1पि 0 0 मुख्यम् 1/1 चित्तमलम् 2/1 त् 1/1 निवर्तयति III/1 ॥ ३४॥

 

कः 1/1 पङ्गु 1/1 0 प्रथित 1/1 1/1 0 वार्द्धके 7/1 तीर्थम् 2/1 व्रजति III/1

किम् 1/1 मुख्यम् 1/1 0 पि 0 तीर्थम् 1/1 त् 1/1 चित्तमलम् 2/1 निवर्तयति III/1 ॥ ३४॥

 

 

किं स्मर्त्तव्यं पुरुषैः हरिनाम सदा न यावनी भाषा ।

को हि न वाच्यः सुधिया परदोषश्चानृतं तद्वत् ॥ ३५॥

 

किम् 1/1 स्मर्त्तव्यम् 1/1 पुरुषैः 3/3 हरिनाम 1/1 सदा 0 0 यावनी 1/1 भाषा 1/1

1/1 हि 0 0 वाच्यः 1/1 सुधिया 3/1 परदोष 1/1 0नृतम् 1/1 तद्वत् 0 ॥ ३५॥

 

किम् 1/1 पुरुषैः 3/3 स्मर्त्तव्यम् 1/1 । सदा 0 हरिनाम 1/1, 0 यावनी 1/1 भाषा 1/1

1/1 सुधिया 3/1 हि 0 0 वाच्यः 1/1 । परदोष 1/1 0नृतम् 1/1 तद्वत् 0 ॥ ३५॥

 

 

किं सम्पाद्यं मनुजैः विद्या वित्तं बलं यशः पुण्यम् ।

कः सर्वगुणविनाशी लोभः शत्रुश्च कः कामः ॥ ३६॥

 

किम् 1/1 सम्पाद्यम् 1/1 मनुजैः 3/3 विद्या 1/1 वित्तम् 1/1 लम् 1/1 यशः 1/1 पुण्यम् 1/1

कः 1/1 सर्वगुणविनाशी 1/1 लोभः 1/1 शत्रु 1/1 0 कः 1/1 कामः 1/1 ॥ ३६॥

 

किम् 1/1 मनुजैः 3/3 सम्पाद्यम् 1/1 विद्या 1/1 वित्तम् 1/1 लम् 1/1 यशः 1/1 पुण्यम् 1/1

कः 1/1 सर्वगुण-विनाशी 1/1 लोभः 1/1

कः 1/1 शत्रु 1/1 0 कामः 1/1 ॥ ३६॥

 

 

का च सभा परिहार्या हीना या वृद्धसचिवेन ।

इह कुत्रावहितः स्यान्मनुजः किल राजसेवायाम् ॥ ३७॥

 

का 1/1 0 सभा 1/1 परिहार्या 1/1 हीना 1/1 या 1/1 वृद्धसचिवेन 3/1

इह 0 कुत्र 0वहितः 1/1 स्यात् III/1नुजः 1/1 किल 0 राजसेवायाम् 7/1 ॥ ३७॥

 

का 1/1 0 सभा 1/1 परिहार्या 1/1। या 1/1 वृद्धसचिवेन 3/1 हीना 1/1

इह 0 कुत्र 0वहितः 1/1 नुजः 1/1 स्यात् III/1 । किल 0 राजसेवायाम् 7/1 ॥ ३७॥

 

 

प्राणादपि को रम्यः कुलधर्मः साधुसङ्गश्च ।

का संरक्ष्या कीर्तिः पतिव्रता नैजबुद्धिश्च ॥ ३८॥

 

प्राणात् 5/1पि 0 1/1 रम्यः 1/1 कुलधर्मः 1/1 साधुसङ्ग 1/1 0

का 1/1 संरक्ष्या 1/1 कीर्तिः 1/1 पतिव्रता 1/1 नैजबुद्धि 1/1 0॥ ३८॥

 

प्राणात् 5/1पि 0 1/1 रम्यः 1/1 कुलधर्मः 1/1 साधुसङ्ग 1/1 0

का 1/1 संरक्ष्या 1/1 कीर्तिः 1/1 पतिव्रता 1/1 नैजबुद्धि 1/1 0॥ ३८॥

 

 

का कल्पलता लोके सच्छिष्यायार्पिता विद्या ।

कोऽक्षयवटवृक्षः स्यात्विधिवत्सत्पात्रदत्तदानं यत् ॥ ३९॥

 

का 1/1 कल्पलता 1/1 लोके 7/1 त्-शिष्या 4/1र्पिता 1/1 विद्या 1/1

1/1क्षय-वटवृक्षः 1/1 स्यात् 1/1 विधिवत्-सत्-पात्र-दत्त-दानम् 1/1 यत् 1/1 ॥ ३९॥

 

का 1/1 लोके 7/1 कल्पलता 1/1 । सत्-शिष्या 4/1र्पिता 1/1 विद्या 1/1

1/1क्षय-वटवृक्षः 1/1 स्यात् 1/1 यत् 1/1 विधिवत्-सत्-पात्र-दत्त-दानम् 1/1 ॥ ३९॥

 

 

किं शस्त्रं सर्वेषां युक्तिः माता च का धेनुः ।

किं नु बलं यद्धैर्यं को मृत्युः यदवधानरहितत्वम् ॥ ४०॥

 

किम् 1/1 शस्त्रम् 1/1 सर्वेषाम् 6/3 युक्तिः 1/1 माता 1/1 0 का 1/1 धेनुः 1/1

किम् 1/1 नु 0 बलम् 1/1 त् 1/1 धैर्यम् 1/1 1/1 मृत्युः 1/1 त् 1/1वधान-रहितत्वम् 1/1 ॥ ४०॥

 

किम् 1/1 सर्वेषाम् 6/3 शस्त्रम् 1/1 युक्तिः 1/1

का 1/1 माता 1/1 0 धेनुः 1/1

किम् 1/1 नु 0 बलम् 1/1 त् 1/1 धैर्यम् 1/1

1/1 मृत्युः 1/1 त् 1/1वधान-रहितत्वम् 1/1 ॥ ४०॥

 

 

कुत्र विषं दुष्टजने किमिहाशौचं भवेतृणं नृणाम् ।

किमभयमिह वैराम्यं भयमपि किं वित्तमेव सर्वेषाम् ॥ ४१॥

 

कुत्र 0 विषम् 1/1 दुष्टजने 7/1 किम् 1/1 इह 0शौचम् 1/1 भवेत् III/1 ऋणम् 1/1 नृणाम् 6/3

किम् 1/1भयम् 1/1 0 वैराम्यम् 1/1 भयम् 1/1पि 0 किम् 1/1 वित्तम् 1/1 0 सर्वेषाम् 6/3 ॥ ४१॥

 

कुत्र 0 विषम् 1/1 । दुष्टजने 7/1

किम् 1/1 इह 0शौचम् 1/1 भवेत् III/1 नृणाम् 6/3 ऋणम् 1/1

किम् 1/1 0 भयम् 1/1 । वैराम्यम् 1/1

किम् 1/1 पि 0 भयम् 1/1 । सर्वेषाम् 6/3 वित्तम् 1/1 0 ॥ ४१॥

 

 

का दुर्लभा नराणां हरिभक्तिः पातकं च किं हिंसा ।

को हि भगवत्प्रियः स्यात्योऽन्यं नोद्वेजयेदनुद्विग्नः ॥ ४२॥

 

का 1/1 दुर्लभा 1/1 नराणाम् 6/3 हरिभक्तिः 1/1 पातकम् 1/1 0 किम् 1/1 हिंसा 1/1

1/1 हि 0 भगवत्प्रियः 1/1 स्यात् III/1 यः 1/1 अन्यम् 2/1 0द्वेजयेत् III/1नुद्विग्नः 1/1 ॥ ४२॥

 

का 1/1 नराणाम् 6/3 दुर्लभा 1/1 । हरिभक्तिः 1/1

किम् 1/1 0 पातकम् 1/1 । हिंसा 1/1

1/1 हि 0 भगवत्प्रियः 1/1 स्यात् III/1 यः 1/1नुद्विग्नः 1/1 अन्यम् 2/1 0द्वेजयेत् III/1॥ ४२॥

 

 

कस्मात् सिद्धिः तपसः बुद्धिः क्व नु भूसुरे कुतो बुद्धिः ।

वृद्धोपसेवया के वृद्धा ये धर्मतत्त्वज्ञाः ॥ ४३॥

 

कस्मात् 5/1 सिद्धिः 1/1 तपसः 5/1 बुद्धिः 1/1 क्व 0 नु 0 भूसुरे 7/1 कुत 0 बुद्धिः 1/1

वृद्ध-पसेवया 3/1 के 1/3 वृद्धा 1/3 ये 1/3 धर्मतत्त्वज्ञाः 1/3 ॥ ४३॥

 

कस्मात् 5/1 सिद्धिः 1/1 । तपसः 5/1

क्व 0 नु 0 बुद्धिः 1/1। भूसुरे 7/1

कुत 0 बुद्धिः 1/1 वृद्ध-पसेवया 3/1

के 1/3 वृद्धा 1/3 ये 1/3 धर्मतत्त्वज्ञाः 1/3 ॥ ४३॥

 

 

सम्भावितस्य मरणादधिकं किं दुर्यशो भवति ।

लोके सुखी भवेत्को धनवान्धनमपि च किं यतश्चेष्टम् ॥ ४४॥

 

सम्भावितस्य 6/1 मरणात् 5/1धिकम् 1/1 किम् 1/1 दुर्यश 1/1 भवति III/1

लोके 7/1 सुखी 1/1 भवेत् III/1 कः 1/1नवान् 1/1 धनम् 1/1 अपि 0 0 किम् 1/1 यत 0 चेष्टम् 1/1 ॥ ४४॥

 

किम् 1/1 सम्भावितस्य 6/1 मरणात् 5/1धिकम् 1/1। दुर्यश 1/1 भवति III/1

कः 1/1 लोके 7/1 सुखी 1/1 भवेत् III/1 नवान् 1/1

किम् 1/1 धनम् 1/1 अपि 0 0 । यत 0 चेष्टम् 1/1 ॥ ४४॥

 

 

सर्वसुखानां बीजं किं पुण्यं दुःखमपि कुतः पापात् ।

कस्यैश्वर्यं यः किल शङ्करमाराधयेद्भक्त्या ॥ ४५॥

 

सर्वसुखानाम् 6/3 बीजम् 1/1 किम् 1/1 पुण्यम् 1/1 दुःखम् 1/1पि 0 कुतः 0 पापात् 5/1

कस्य 6/1श्वर्यम् 1/1 यः 1/1 किल 0 शङ्करम् 2/1राधयेत् III/1क्त्या 3/1 ॥ ४५॥

 

किम् 1/1 सर्वसुखानाम् 6/3 बीजम् 1/1 । पुण्यम् 1/1

दुःखम् 1/1पि 0 कुतः 0 । पापात् 5/1

कस्य 6/1श्वर्यम् 1/1 । यः 1/1 किल 0 शङ्करम् 2/1क्त्या 3/1 राधयेत् III/1॥ ४५॥

 

 

को वर्द्धते विनीतः को वा हीयेत यो दृप्तः ।

को न प्रत्येतव्यो ब्रूते यश्चानृतं शश्वत् ॥ ४६॥

 

1/1 वर्द्धते III/1 विनीतः 1/1 1/1 वा 0 हीयेत III/1 1/1 दृप्तः 1/1

1/1 0 प्रत्येतव्य 1/1 ब्रूते III/1 1/1 0नृतम् 2/1 शश्वत् 0 ॥ ४६॥

 

1/1 वर्द्धते III/1 विनीतः 1/1

1/1 वा 0 हीयेत III/1 1/1 दृप्तः 1/1

1/1 0 प्रत्येतव्य 1/1 1/1 0नृतम् 2/1 शश्वत् 0 ब्रूते III/1॥ ४६॥

 

 

कुत्रानृतेऽप्यपाप यच्चोक्तं धर्मरक्षार्थम् ।

को धर्मोऽभिमतो यः शिष्टानां निजकुलीनानाम् ॥ ४७॥

 

कुत्र 0नृते 7/1 अपि 0पापम् 1/1 त् 1/1 0 उक्तम् 1/1 धर्मरक्षार्थम् 0

1/1 धर्म 1/1भिमत 1/1 यः 1/1 शिष्टानाम् 6/3 निजकुलीनानाम् 6/3॥ ४७॥

 

कुत्र 0नृते 7/1 अपि 0पापम् 1/1 त् 1/1 0 धर्मरक्षार्थम् 0 उक्तम् 1/1

1/1 धर्म 1/1 यः 1/1 निजकुलीनानाम् 6/3 शिष्टानाम् 6/3 भिमत 1/1 ॥ ४७॥

 

 

साधुबलं किं दैवं कः साधुः सर्वदा तुष्टः ।

दैवं किं यत्सुकृतं कः सुकृती श्लाघ्यते च यः सद्भिः ॥ ४८॥

 

साधुबलम् 1/1 किम् 1/1 दैवम् 1/1 कः 1/1 साधुः 1/1 सर्वदा 0 तुष्टः 1/1

दैवम् 1/1 किम् 1/1 त् 1/1 सुकृतम् 1/1 कः 1/1 सुकृती 1/1 श्लाघ्यते III/1 0 यः 1/1 सद्भिः 3/3 ॥ ४८॥

 

किम् 1/1 साधुबलम् 1/1 । दैवम् 1/1

कः 1/1 साधुः 1/1 । सर्वदा 0 तुष्टः 1/1

किम् 1/1 दैवम् 1/1 । यत् 1/1 सुकृतम् 1/1

कः 1/1 सुकृती 1/1 । यः 1/1 0 सद्भिः 3/3 श्लाघ्यते III/1॥ ४८॥

 

 

गृहमेधिनश्च मित्रं किं भार्या को गृही च यो यजते ।

को यज्ञो यः श्रुत्या विहितः श्रेयस्करो नृणाम् ॥ ४९॥

 

गृहमेधिन 6/1 0 मित्रम् 1/1 किम् 1/1 भार्या 1/1 1/1 गृही 1/1 0 1/1 यजते III/1

1/1 यज्ञ 1/1 यः 1/1 श्रुत्या 3/1 विहितः 1/1 श्रेयस्कर 1/1 नृणाम् 6/3॥ ४९॥

 

किम् 1/1 गृहमेधिन 6/1 0 मित्रम् 1/1 भार्या 1/1

1/1 0 गृही 1/1 । य 1/1 यजते III/1

1/1 यज्ञ 1/1 । यः 1/1 श्रुत्या 3/1 विहितः 1/1 नृणाम् 6/3 श्रेयस्कर 1/1 ॥ ४९॥

 

 

कस्य क्रिया हि सफला यः पुनराचारवाञ्शिष्टः ।

कः शिष्टो यो वेदप्रमाणवान् को हतः क्रियाभ्रष्टः ॥ ५०॥

 

कस्य 6/1 क्रिया 1/1 हि 0 सफला 1/1 यः 1/1 पुन 0चारवान् 1/1 शिष्टः 1/1

कः 1/1 शिष्ट 1/1 1/1 वेदप्रमाणवान् 1/1 1/1 हतः 1/1 क्रियाभ्रष्टः 1/1 ॥ ५०॥

 

कस्य 6/1 क्रिया 1/1 हि 0 सफला 1/1 यः 1/1 पुन 0चारवान् 1/1 शिष्टः 1/1

कः 1/1 शिष्ट 1/1 1/1 वेदप्रमाणवान् 1/1

1/1 हतः 1/1 क्रियाभ्रष्टः 1/1 ॥ ५०॥

 

 

को धन्यः संन्यासी को मान्यः पण्डितः साधुः ।

कः सेव्यो यो दाता को दाता योऽर्थितृप्तिमातनुते ॥ ५१॥

 

1/1 धन्यः 1/1 संन्यासी 1/1 1/1 मान्यः 1/1 पण्डितः 1/1 साधुः 1/1

कः 1/1 सेव्य 1/1 1/1 दाता 1/1 1/1 दाता 1/1 1/1र्थि-तृप्तिम् 2/1तनुते III/1 ॥ ५१॥

 

1/1 धन्यः 1/1 । संन्यासी 1/1

1/1 मान्यः 1/1 । पण्डितः 1/1 साधुः 1/1

कः 1/1 सेव्य 1/1 । य 1/1 दाता 1/1

1/1 दाता 1/1 । य 1/1र्थि-तृप्तिम् 2/1तनुते III/1 ॥ ५१॥

 

 

किं भाग्यं देहवतामारोग्यं कः फली कृषिकृत् ।

कस्य न पापं जपतः कः पूर्णो यः प्रजावान् स्यात् ॥ ५२॥

 

किम् 1/1 भाग्यम् 1/1 देहवताम् 6/3रोग्यम् 1/1 कः 1/1 फली 1/1 कृषिकृत् 1/1

कस्य 6/1 0 पापम् 1/1 जपतः 0 कः 1/1 पूर्ण 1/1 यः 1/1 प्रजावान् 1/1 स्यात् III/1 ॥ ५२॥

 

किम् 1/1 देहवताम् 6/3 भाग्यम् 1/1 रोग्यम् 1/1

कः 1/1 फली 1/1 । कृषिकृत् 1/1

कस्य 6/1 पापम् 1/1 0 । जपतः 0

कः 1/1 पूर्ण 1/1 । यः 1/1 प्रजावान् 1/1 स्यात् III/1 ॥ ५२॥

 

 

किं दुष्करं नराणां यन्मनसो निग्रहः सततम् ।

को ब्रह्मचर्यवान् स्यात्यश्चास्खलितोर्ध्वरेतस्कः ॥ ५३॥

 

किम् 1/1 दुष्करम् 1/1 नराणाम् 6/3 त् 1/1नस 6/1 निग्रहः 1/1 सततम् 0

1/1 ब्रह्मचर्यवान् 1/1 स्यात् III/1 यः 1/1 0स्खलित-ऊर्ध्वरेतस्कः 1/1 ॥ ५३॥

 

किम् 1/1 नराणाम् 6/3 दुष्करम् 1/1 । यत् 1/1 सततम् 0 नस 6/1 निग्रहः 1/1

1/1 ब्रह्मचर्यवान् 1/1 स्यात् III/1 यः 1/1 0स्खलित-ऊर्ध्वरेतस्कः 1/1 ॥ ५३॥

 

 

का च परदेवतोक्ता चिच्छक्तिः को जगत्भर्ता ।

सूर्यः सर्वेषां को जीवनहेतुः स पर्जन्यः ॥ ५४॥

 

कः शुरो यो भीतत्राता त्राता च कः सद्गुरुः ।

को हि जगद्गुरुरुक्तः शम्भुः ज्ञानं कुतः शिवादेव ॥ ५५॥

 

मुक्तिं लभेत कस्मान्मुकुन्दभक्तेः मुकुन्दः कः ।

यस्तारयेदविद्यां का चाविद्या यदात्मनोऽस्फूर्तिः ॥ ५६॥

 

कस्य न शोको यः स्याद्क्रोधः किं सुखं तुष्टिः ।

को राजा रञ्चनकृत्कश्च श्वा नीचसेवको यः स्यात् ॥ ५७॥

 

को मायी परमेशः क इन्द्रजालायते प्रपञ्चोऽयम् ।

कः स्वप्ननिभो जाग्रद्व्यवहारः सत्यमपि च किं ब्रह्म ॥ ५८॥

 

किं मिथ्या यद्विद्यानाश्यं तुच्छं तु शशविषाणादि ।

का चानिर्वाच्या माया किं कल्पितं द्वैतम् ॥ ५९॥

 

किं पारमार्थिकं स्यादद्वैतं चाज्ञता कुतोऽनादिः ।

वपुषश्च पोषकं किं प्रारब्धं चान्नदायि किं चायुः ॥ ६०॥

 

को ब्रह्मणैरुपास्यो गायत्र्यर्काग्निगोचरः शम्भुः ।

गायत्र्यामादित्ये चाग्नौ शम्भ च किं नु तत्तत्त्वम् ॥ ६१॥

 

प्रात्यक्षदेवता का माता पूज्यो गुरुश्च कः तातः ।

कः सर्वदेवतात्मा विद्याकर्मान्वितो विप्रः ॥ ६२॥

 

कश्च कुलक्षयहेतुः सन्तापः सज्जनेषु योऽकारि ।

केषाममोघ वचनं ये च पुनः सत्यमौनशमशीलाः ॥ ६३॥

 

किं जन्म विषयसङ्गः किमुत्तरं जन्म पुत्रः स्यात् ।

कोऽपरिहार्यो मृत्युः कुत्र पदं विन्यसेच्च दृक्पूते ॥ ६४॥

 

पात्रं किमन्नदाने क्षुधितं कोऽर्च्यो हि भगवदवतारः ।

कश्च भगवान्महेशः शङ्करनारायणात्मैकः ॥ ६५॥

 

फलमपि भगवद्भक्तेः किं तल्लोकस्वरुपसाक्षात्त्वम् ।

मोक्षश्च को ह्यविद्यास्तमयः कः सर्ववेदभूः अथ च ॐ ॥ ६६॥

 

इत्येषा कण्ठस्था प्रश्नोत्तररत्नमालिका येषाम् ।

ते मुक्ताभरणा इव विमलाश्चाभान्ति सत्समाजेषु ॥ ६७॥

 

॥ इति श्रीमद् शङ्कराचार्यविरचिता प्रश्नोत्तररत्नमालिका समाप्ता ॥