पौनःपुन्येन भृशं वा रमते इति रंरम्यते ।
रम् + यङ् 3.1.22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् । ~ वा प्रत्ययः परः च
रम्य 1.3.3 हलन्त्यम् । 1.3.9 तस्य लोपः ।
रम्य् + रम्य 6.1.8 सन्यङोः । ~ अनभ्यासस्य धातोः एकाचः प्रथमस्य द्वे अजादेः द्वितीयस्य
र + रम्य 7.4.60 हलादिः शेषः । ~ अनभ्यासस्य
र नुक् + रम्य 7.4.85 नुगतोऽनुनासिकान्तस्य । ~ अनभ्यासस्य यङ्लुकोः
अनुनासिकान्तस्य अङ्गस्य यो ऽभ्यासः तस्य अकारान्तस्य नुगागमो भवति यङ्यङ्लुकोः परतः।
रं + रम्य 8.3.24 नश्चापदान्तस्य झलि । ~ मः अनुस्वारः
रंरम्य 3.1.32 सनाद्यन्ता धातवः ।
रंरम्य + लट्/कर्तरि/III/1
रंरम्य + ते 1.3.12 अनुदात्तङित आत्मनेपदम् ।
रंरम्य + शप् + ते 3.1.68 कर्तरि शप् । ~ सार्वधातुके
रंरम्यते 6.1.97 अतो गुणे । ~ अपदान्तात्